|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.114. अध्यायः 114
Mahabharata - Bhishma Parva - Chapter Topics
भीमार्जुनपराक्रमवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-114-0x(4231)(44044)
अर्जुनस्तु रणे शल्यं यतमानं महारथम्।
छादयामास समरे शरैः सन्नतपर्वभिः ॥ 6-114-1(44045)
सुशर्माणं कृपं चव त्रिभीस्त्रिभिरविध्यत।
प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् ॥ 6-114-2(44046)
चित्रसेनं विकर्णं च कृतवर्माणमेव च ।
दुर्मर्षणं च राजेन्द्र ह्यावन्त्यौ च महारथौ ॥ 6-114-3(44047)
एकैकं त्रिभिरानर्च्छत्कङ्कबर्हिणवाजितैः ।
शरैरतिरथो युद्धे पीडयन्वाहिनीं तव॥ 6-114-4(44048)
जयद्रथो रणे पार्थं विद्ध्वा भारत सायकैः ।
भीमं विव्याध तरसा चित्रसेनरथे स्थितः ॥ 6-114-5(44049)
शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः ॥
विव्याधाते महाराज बहुधा मर्ममेदिभिः ॥ 6-114-6(44050)
चित्रसेनादयश्चैव पुत्रास्तव विशांपते ।
पञ्चाभिः पञ्चभिस्तूर्णं सुंयुगे निशितैः शरैः ॥ 6-114-7(44051)
आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष ।
तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ ॥ 6-114-8(44052)
अपीडयेतां समरे त्रिगर्तानां महद्बलम् ।
सुशर्माणि रणे पार्थं शरैर्नवभिराशुगैः ॥ 6-114-9(44053)
ननाद बलवन्नादं त्रासयानो महद्बलम् ।
अन्ये च रथिनः शूरा भीमसेनधनञ्जयौ ॥ 6-114-10(44054)
विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः ।
तेषां च रथिनां मध्ये कौन्तेयौ भरतर्षभौ ॥ 6-114-11(44055)
क्रीडमानौ रथोदारौ चित्ररूपौ व्यदृश्यताम् ।
आमिषेप्सू गवां मध्ये सिंहाविव मदोत्कटौ ॥ 6-114-12(44056)
छित्त्वा धनूंषि शूराणां शरांश्च बहुधा रणे ।
पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् ॥ 6-114-13(44057)
रथाश्च बहवो भग्ना हयाश्च शतशो हताः।
गजाश्च सगजारोहाः पेतुरुर्व्यां महाहवे ॥ 6-114-14(44058)
रथिनः सादिनश्चापि तत्रतत्र निषूदिताः।
दृश्यन्ते बहवो राजन्वेषमानाः समन्ततः ॥ 6-114-15(44059)
हतैर्गजपदात्योघैर्वाजिभिश्च निषूदितैः।
रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी ॥ 6-114-16(44060)
छत्रैश्च बहुधा च्छिन्नैर्ध्वजैश्च विनिपातितैः ।
अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत ॥ 6-114-17(44061)
केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा ।
उष्णीषैर्ऋष्टिभिश्चैव चामरव्यजनैरपि ॥ 6-114-18(44062)
तत्रतत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः ।
ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी ॥ 6-114-19(44063)
तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् ।
शरैः संवार्य तान्वीरान्यज्जघान महाबलः ॥ 6-114-20(44064)
पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनपराक्रमम् ।
गाङ्गेयस्य रथाभ्याशमुपजग्मे महाबलः ॥ 6-114-21(44065)
कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः ।
विन्दानुविन्दावावन्त्यौ नाजहुः संयुगं तदा ॥ 6-114-22(44066)
ततो भीमो महेष्वासः फल्गुनश्च महारथः ।
कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे ॥ 6-114-23(44067)
ततो बर्हिणवाजानामयुतान्यर्बुदानि च।
धनञ्जयरथे तूर्णं पातयन्ति स्म भूमिपाः ॥ 6-114-24(44068)
ततस्तञ्शरजालेन सन्निवार्य महारथान् ।
पार्थः समन्तात्समरे प्रेषयामास मृत्यवे ॥ 6-114-25(44069)
शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः ।
आजघानोरसि क्रुद्धो भल्लैः सन्नतपर्वभिः ॥ 6-114-26(44070)
तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः ।
अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि ॥ 6-114-27(44071)
अथान्यद्धनुरादाय समरे भारसाधनम् ।
मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः ॥ 6-114-28(44072)
त्रिभिः शरैर्महाराज वासुदेवं कच पञ्चभिः ।
भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् ॥ 6-114-29(44073)
ततो द्रोणो महाराज मागधश्च महारथः ।
दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः॥ 6-114-30(44074)
यत्र पार्थो महाराज भीमसेनश्च पाण्डवः ।
कौरव्यस्य महासेनां जघ्नुतुः सुमहारथौ ॥ 6-114-31(44075)
जयत्सेनस्तु समरे भीमं भीमायुधं युधि।
विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ ॥ 6-114-32(44076)
तं भीमो दशभिर्विद्धा पुनर्वीव्याध पञ्चभिः ।
सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ 6-114-33(44077)
उद्भ्रांतैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः ।
मागधोऽपसृतो राजा सर्वसैन्यस्य पश्यतः ॥ 6-114-34(44078)
द्रोणश्च विवरं दृष्ट्वा भीमसेनं शिलीमुखैः ।
विव्याध बाणैर्निशितैः पञ्चषष्टिभिरायसैः ॥ 6-114-35(44079)
तं भीमः समरश्लाघी गुरुं पितृसमं रणे।
विव्याध पञ्चभिर्भल्लैस्तथा षष्ट्या च भारत ॥ 6-114-36(44080)
अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः।
व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथाऽनिलः ॥ 6-114-37(44081)
ततो भीष्मश्च राज च कौसल्यश्च बृहद्बलः ।
समवर्तन्त संक्रुद्धा भीमसेनधनञ्जयौ ॥ 6-114-38(44082)
तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः ।
अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् ॥ 6-114-39(44083)
शिखण्डी तु समासाद्य भरतानां पितामहम् ।
अभ्यद्रवत संहृष्टो भयं त्यक्त्वा महारथात् ॥ 6-114-40(44084)
युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् ।
अयोधयन्रणे भीष्मं सहिताः सर्वसृञ्जयैः ॥ 6-114-41(44085)
तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् ।
शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥ 6-114-42(44086)
ततः प्रववृते युद्धं कौरवाणां भयावहम्।
तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति ॥ 6-114-43(44087)
तावकानां जये भीष्मो ग्लह आसीद्विशांपते ।
तत्र हि द्यूतमासक्तं विजयायेतराय वा ॥ 6-114-44(44088)
धृष्टद्युम्नस्तु राजेन्द्र सर्वसैन्यान्यचोदयत्।
अभ्यद्रवत गाङ्गेयं मा भैष्ट रथसत्तमाः ॥ 6-114-45(44089)
सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी ।
भीष्मं समभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे ॥ 6-114-46(44090)
भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् ।
आपतन्तीं महाराज वेलामिव महोदधिः ॥ ॥ 6-114-47(44091)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे चतुर्दशाधिकशततमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-114-24 बर्हिणवाजानां मयूरपक्षवतां बाणानाम् ॥ 6-114-30 मागधो जयत्सेनः ॥ 6-114-34 अपसृतः पलायितः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|